(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.188. अध्यायः 188
Mahabharata - Vana Parva - Chapter Topics
मार्कण्डेयेन युधिष्ठिरादीन्प्रति वैन्यस्याश्वमेधे अत्रिगौतमविवादानुवादेन ब्राह्मणमाहात्म्यकथनम् ॥ 1 ॥
Mahabharata - Vana Parva - Chapter Text

मार्कण्डेय उवाच। 3-188-0x(2370)(23144)
भूय एव तु माहात्म्यं ब्राह्मणआनां निबोध मे।
वैन्यो नामेह राजर्षिरश्वमेधाय दीक्षितः ॥ 3-188-1(23145)
तमत्रिर्गन्तुमारेबे वित्तार्थमिति नः श्रुतम्।
भूयोऽर्थं नानुरुध्यत्स धर्मव्यक्तिनिदर्शनात् ॥ 3-188-2(23146)
स विचिन्त्य महातेजा वनमेवान्वरोचयत्।
धर्मपत्नीं समाहूय पुत्रांश्चेदमुवाच ह ॥ 3-188-3(23147)
प्राप्स्यामः फलमत्यन्तं बहुलं निरुपद्रवम्।
अरण्यगमनं क्षिप्रं रोचतां वो गुणाधिकम् ॥ 3-188-4(23148)
तं भार्या प्रत्युवाचाथ धनमेवानुरुन्धती।
वैन्यं गत्वा महात्मानमर्थयस्व धनं बहुः ॥ 3-188-5(23149)
स ते दास्यति राजर्षिर्यजमानोऽर्थिने धनम्।
तत आदाय विप्रर्षे प्रतिगृह्य धनं बहु ॥ 3-188-6(23150)
भृत्यान्सुतान्संविभज्य ततो व्रज यथेप्सितम्।
एष वै परमो धर्मो धर्मविद्भिरुदाहृतः ॥ 3-188-7(23151)
अत्रिरुवाच। 3-188-8x(2371)
कथितो मे महाभागे गौतमेन महात्मना।
वैन्यो धर्मार्थसंयुक्तः सत्यव्रतसमन्वितः ॥ 3-188-8(23152)
किंत्वस्ति तत्र द्वेष्टारो निवसन्ति हि मे द्विजाः।
यथा मे गौतमः प्राह ततो न व्यवसाम्यहम् ॥ 3-188-9(23153)
तत्र स्म वाचं कल्याणीं धर्मकामार्थसंहिताम्।
मयोक्तामन्यथा ब्रूयुस्ततस्ते वै निरर्थिकाम् ॥ 3-188-10(23154)
गमिष्यामि महाप्राज्ञे रोचते मे वचस्तव।
गाश्च मे दास्यते वैन्यः प्रभूतं चार्थसंचयम् ॥ 3-188-11(23155)
एवमुक्त्वा जगामाशु वैन्ययज्ञं महातपाः।
गत्वा च यज्ञायतनमत्रिस्तुष्टाव तं नृपम् ॥ 3-188-12(23156)
वाक्यैर्मङ्गलसंयुक्तैः पूजयानोऽब्रवीद्वचः।
राजन्धन्यस्त्वमीशश्च भुवि त्वं प्रथमो नृपः।
स्तुवन्ति त्वां मुनिगणास्त्वदन्यो नास्ति धर्मवित् ॥ 3-188-13(23157)
तमब्रवीदृषिः क्रुद्धो वचनं वै महातपाः ॥ 3-188-14(23158)
गौतम उवाच। 3-188-15x(2372)
मैवमत्रे पुनर्ब्रूया न ते प्रज्ञा समाहिता।
अत्र नः प्रथमो धाता महेन्द्रो वै प्रजापतिः ॥ 3-188-15(23159)
वैशम्पायन उवाच। 3-188-16x(2373)
अथात्रिरपि राजेन्द्र गौतमं प्रत्यभाषत।
अयमेव विधाता च तथैवेन्द्रः प्रजापतिः।
त्वमेव मुह्यसे मोहान्न प्रज्ञानं तवास्ति ह ॥ 3-188-16(23160)
गौतम उवाच। 3-188-17x(2374)
जानामि नाहं मुह्यामि त्वंविवक्षुर्विमुह्यसे।
स्तौषि त्वं दर्शनप्रेप्सू राजानं जनसंसदि ॥ 3-188-17(23161)
न वेत्थ परमं धर्मं न चास्त्यत्र प्रयोजनम्।
बालस्त्वमसि मूढश्च वृद्धः केनापि हेतुना ॥ 3-188-18(23162)
वैशम्पायन उवाच। 3-188-19x(2375)
विवदन्तौ तथा तौ तु मुनीनां द्रशने स्थितौ।
ये तस्य यज्ञे संवृत्तास्तेऽपृच्छन्त कथं त्विमौ ॥ 3-188-19(23163)
प्रवेशः केन दत्तोऽयमनयोर्वैन्यसंसदि।
उच्चैः समभिभाषन्तौ केन कार्येण धिष्ठितौ ॥ 3-188-20(23164)
ततः परमधर्मात्मा काश्यपः सर्वधऱ्मवित्।
विवादिनावनुप्राप्तौ तावुभौ प्रत्यवेदयत् ॥ 3-188-21(23165)
अथाब्रवीत्सदस्यांस्तु गौतमो मुनिसत्तमान्।
आवयोर्व्याहृतं प्रश्नं शृणुत द्विजसत्तमाः।
वैन्यं विधातेत्याहात्रिरत्र नौ संशयो महान् ॥ 3-188-22(23166)
`ततस्तु गौतमेनोक्तं वाक्यं वैन्यस्य संसदि'।
श्रुत्वैव तु महात्मानो मुनयोऽभ्यद्रवन्दुतम् ॥ 3-188-23(23167)
सनत्कुमारं धर्मज्ञं संशयच्छेदनाय वै।
`पप्रच्छुः प्रणताः सर्वे ब्रह्माणमिव सोमपाः' ॥ 3-188-24(23168)
स च तेषां वचः श्रुत्वा यथातत्त्वं महातपाः।
प्रत्युवाचाथ तानेवं धर्मार्थसहितं वचः ॥ 3-188-25(23169)
ब्रह्म क्षत्रेण सहितं क्षत्रं च ब्रह्मणा सह।
संयुक्तौ दहतः शत्रून्वनानीवाग्निमारुतौ ॥ 3-188-26(23170)
राजा वै प्रथितो धर्मः प्रजानां पतिरेव च।
स एव शक्रः शुक्रश्च स धाता च बृहस्पतिः ॥ 3-188-27(23171)
प्रजापतिर्विराट् सम्राट् क्षत्रियो भूपतिर्नृपः।
य एभिः स्तूयते शब्दैः कस्तं नार्चितुमर्हति ॥ 3-188-28(23172)
पुरायोनिर्युधाजिच्च अभीष्टानचितो भवः।
स्वर्णेता सहजिद्बभ्रुरिति राजाऽभिधीयते।
सत्ययोनिः पुराविच्च सत्यधर्मप्रवर्तकः ॥ 3-188-29(23173)
अधर्मादृषयो भीता बलं क्षत्रे समादधन्।
`तस्माद्धि ब्रह्मणा क्षत्रं क्षत्रेण ब्रह्म चाव्ययम्' ॥ 3-188-30(23174)
आदित्यो दिवि देवेषु तमो नुदति तेजसा।
तथैव नृपतिर्भूमावधर्मान्नुदते भृशम् ॥ 3-188-31(23175)
ततो राज्ञः प्रधानत्वं शास्त्रप्रामाण्यदर्शनात्।
उत्तरः सिद्ध्यते पक्षो येन राजेति भाषितम् ॥ 3-188-32(23176)
मार्कण्डे उवाच। 3-188-33x(2376)
ततः स राजा संहृष्टः सिद्धे पक्षे महामनाः।
तमत्रिमब्रवीत्प्रीतः पूर्वं येनाभिसंस्तुतः ॥ 3-188-33(23177)
यस्मात्पूर्वं मनुष्येषु ज्यायांसं मामिहाब्रवीः।
सर्वदेवैश्च विप्रर्षे संमितं श्रेष्ठमेव च ॥ 3-188-34(23178)
तस्मात्तेऽहंप्रदास्यामि विविधं वसु भूरि च।
दासीसहस्रं श्यामानां सुवस्त्राणामलकृतम् ॥ 3-188-35(23179)
दशकोटीर्हिरण्यस्य रुक्मभारांस्तथा दश।
एतद्ददामि विप्रर्षे सर्वज्ञस्त्वं मतो हि मे ॥ 3-188-36(23180)
तदत्रिनर्न्यायतः सर्वं प्रतिगृह्याभिसत्कृतः।
प्रत्युज्जगाम तेजस्वी गृहानेव महातपाः ॥ 3-188-37(23181)
प्रदाय च धनं प्रीतः पुत्रेभ्यः प्रयतात्मवान्।
ततः समभिसंधाय वनमेवान्वपद्यत ॥ 3-188-38(23182)

इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि अष्टाशीत्यधिकशततमोऽध्यायः ॥ 188 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-188-2 सोऽत्रिरर्थं भूयो नानुरुध्यत् अत्यन्तमर्थार्थां न बभूव। कुतः। कर्मव्यक्तिर्धर्मस्य फलद्वाराऽभिव्यक्तिः। फलव्यक्त्या हि धर्मो नश्यत्यतस्तद्रक्षणार्थं नैच्छदित्यर्थः ॥ 3-188-3 वनं गन्तुमिति शेषः ॥ 3-188-4 निरुपद्रवमक्षयं मोक्षाख्यम् ॥ 3-188-5 धर्ममेवानुतन्वतीति झ. पाठः। धर्मं यज्ञादिकं अनुतन्वती विस्तारयन्ती। हेतौ शतृप्रत्ययः। धर्मार्थे धनमेवार्जयस्वेत्युवाचेत्यर्थः ॥ 3-188-8 राजप्रतिग्रहे दोषं जानन्नत्रिस्तत्र विघ्नमुपन्यस्यति कथित इत्यादिना ॥ 3-188-9 व्यवसामि उद्यमं करोमि ॥ 3-188-11 एवं जानन्नपि स्नेहदोषात्तत्कर्तुं प्रतिजानीते गमिष्यामीति ॥ 3-188-13 धन्यो धनार्हः ईश ईशिता नियन्ता। प्रथमः हिरण्यगर्भइव अग्रजः। नृपः मनुष्याणां रक्षकः ॥ 3-188-15 अत्र परलोकमेव बहुमन्वानो गौतम आह मैवमिति ॥ 3-188-16 तत्रेन्द्रइवात्र राजैव महेन्द्र इतिवित्तार्थी अत्रिः परपक्षं दूषयति अथेति ॥ 3-188-19 दर्शने दृष्टिपथे ॥ 3-188-21 प्रत्यषेधयत् इति ध. पाठः ॥ 3-188-22 नौ आवयोः । संशयः विवादः ॥ 3-188-27 प्रथितः प्रथांगतः। धर्मः धर्मस्थापकः। शक्रः रक्षिता। शुक्रः नीतिवित्। धाता अतएव जनकः। बृहस्पतिः हितोपदेष्टा ॥ 3-188-29 अभिया मुदित इति झ. पाठः। पुरायोनिः धर्मप्रवर्तकत्वेन प्रथमं कारणम्। युघाजित् संग्रामे जयकर्तृत्वेनोपद्रवनाशकः। अभियाः अभितो यातियामिकवद्रक्षणार्थमित्यभियाः। मुदितः भवः ईश्वरः। स्वर्णेता स्वर्गं प्रति गमयिता। सहजित् सद्योजयशीलः। बभ्रुर्विष्णुः ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.